वांछित मन्त्र चुनें
आर्चिक को चुनें

इ꣡न्द्र꣢ सु꣣ते꣢षु꣣ सो꣡मे꣢षु꣣ क्र꣡तुं꣢ पुनीष उ꣣꣬क्थ्य꣢꣯म् । वि꣣दे꣢ वृ꣣ध꣢स्य꣣ द꣡क्ष꣢स्य म꣣हा꣢ꣳ हि षः ॥३८१॥

(यदि आप उपरोक्त फ़ॉन्ट ठीक से पढ़ नहीं पा रहे हैं तो कृपया अपने ऑपरेटिंग सिस्टम को अपग्रेड करें)
स्वर-रहित-मन्त्र

इन्द्र सुतेषु सोमेषु क्रतुं पुनीष उक्थ्यम् । विदे वृधस्य दक्षस्य महाꣳ हि षः ॥३८१॥

मन्त्र उच्चारण
पद पाठ

इ꣡न्द्र꣢꣯ । सु꣣ते꣡षु꣢ । सो꣡मे꣢꣯षु । क्र꣡तु꣢꣯म् । पु꣣नीषे । उक्थ्य꣢꣯म् । वि꣣दे꣢ । वृ꣣ध꣡स्य꣢ । द꣡क्ष꣢꣯स्य । म꣣हा꣢न् । हि । सः ॥३८१॥

सामवेद » - पूर्वार्चिकः » मन्त्र संख्या - 381 | (कौथोम) 4 » 2 » 5 » 1 | (रानायाणीय) 4 » 4 » 1


बार पढ़ा गया

हिन्दी : आचार्य रामनाथ वेदालंकार

प्रथम मन्त्र में इन्द्र नाम से परमेश्वर के महत्त्व का प्रतिपादन किया गया है।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशाली दुःखविदारक जगदीश्वर ! (सोमेषु) हमारे ज्ञानरस, कर्मरस और श्रद्धारस के (सुतेषु) अभिषुत होने पर, आप (उक्थ्यम्) प्रशंसायोग्य (क्रतुम्) हमारे जीवनयज्ञ को (पुनीषे) पवित्र करते हो। (सः) वह आप (वृधस्य) समृद्ध (दक्षस्य) बल के (विदे) प्राप्त कराने के लिए (महान् हि) निश्चय ही महान् हो ॥१॥

भावार्थभाषाः -

जो ज्ञानी और कर्मण्य होता हुआ परमेश्वर की उपासना करता है, उसके जीवन को वह कल्मषरहित करके उसे आत्मबल प्रदान करता है ॥१॥

बार पढ़ा गया

संस्कृत : आचार्य रामनाथ वेदालंकार

तत्रादौ इन्द्रनाम्ना परमेश्वरस्य महत्त्वं प्रतिपादयति।

पदार्थान्वयभाषाः -

हे (इन्द्र) परमैश्वर्यशालिन् दुःखविदारक जगदीश्वर ! त्वम् (सोमेषु) अस्माकं ज्ञानरसेषु कर्मरसेषु श्रद्धारसेषु च (सुतेषु) अभिषुतेषु सत्सु (उक्थ्यम्) प्रशंसनीयम्। उक्थ्य इति प्रशस्यनाम। निघं० ३।८। (क्रतुम्) अस्माकं जीवनयज्ञम् (पुनीषे) पवित्रं करोषि। (सः) तादृशस्त्वम् (वृधस्य) वृद्धस्य (दक्षस्य) बलस्य। दक्ष इति बलनाम। निघं० २।९। (विदे२) लम्भनाय। विद्लृ लाभे धातोः क्विपि, चतुर्थ्येकवचने रूपम्। (महान् हि) महान् खलु, विद्यसे इति शेषः। संहितायाम् ‘दीर्घादटि समानपादे। अ० ८।३।९’ इति नकारस्य रुत्वे, यत्वे, यकारलोपे, ‘आतोऽटि नित्यम्। अ० ८।३।३’ इति पूर्वस्यानुनासिकः। षः इत्यत्र ‘पूर्वपदात्। अ० ८।३।१०६’ इति मूर्धन्यादेशः ॥१॥

भावार्थभाषाः -

यो ज्ञानी कर्मण्यश्च सन् परमेश्वरमुपास्ते तस्य जीवनं स निष्कल्मषं विधाय तस्मै विपुलमात्मबलं प्रयच्छति ॥१॥

टिप्पणी: १. ऋ० ८।१३।१ “इन्द्रः सुतेषु सोमेषु क्रतुं पुनीत उक्थ्यम्। विदे वृधस्य दक्षसो महान् हि षः ॥” इति पाठः। साम० ७४६। २. विदे यथा वेत्ति यथा जानाति—इति वि०। विदे विन्दते वृधस्य प्रवृद्धस्य दक्षस्य बलस्य, द्वितीयार्थे षष्ठी। दक्षं विन्दते—इति भ०। वृधस्य दक्षस्य बलस्य विदे लाभाय—इति सा०।